सर्वः अपि संस्कृतभाषया शुद्धतया सुन्दरतया च वक्तुं लेखितुं च इच्छति। परं तत् सामर्थ्यं कथं सम्पादनीयम् इति सः न जानाति। तदर्थं प्रथमसोपानात्मकः कश्चन उपायः मया अत्र प्रस्तूयते।
प्रथमं सर्वेण अपि भाषाशुद्धिम् इच्छता संस्कृताध्येत्रा कारकं (कारकविभक्तयः उपपदविभक्तयः च) सम्यक् ज्ञातव्यम्। वाक्यरचनायाः प्रमुखः आधारभूतविषयः एषः एव। एतं विषयं सरलतया ज्ञातुं स्मर्तुं च उपलभ्यमानेषु पुस्तकेषु उत्तमं पुस्तकं श्रीमता जि. महाबलेश्वरभट्टमहोदयेन लिखितं संस्कृतभारत्या प्रकाशितं “कारकम्” इति पुस्तकम्।
किञ्च कर्तृकर्मभाववाच्यविषयाः विशेषणविशेष्यसम्बन्धविषयाः च ज्ञातव्याः। वाक्येषु सामान्यदोषाः अत्यधिकतया अत्रैव भवन्ति। तथा च बहूनि अन्यानि दोषस्थानानि अपि सन्ति। तानि सर्वाणि ज्ञातुम् उत्तमं पुस्तकं नाम श्रीमता जनार्दनहेगडेमहोदयेन लिखितं संस्कृतभारत्या प्रकाशितं “शुद्धिकौमुदी” नामकम्।
संस्कृतच्छात्राः, संस्कृतेन सम्भाषणकर्तारः, संस्कृतशिक्षकाः, संस्कृतभाषया सोशियल् मीडिया इत्यत्र संस्कृतेन लेखितारः तथा च संस्कृतप्राध्यापकाः इति एतेषु पञ्चविधेषु संस्कृतज्ञेषु पुनः द्वैविध्यं कल्पयितुं शक्यम् - 1) केचन सरलसंस्कृतस्य प्रयोगं कुर्वन्ति परन्तु तेषां भाषाशुद्धता नास्ति। 2) केषाञ्चन भाषा शुद्धा परन्तु सरला नास्ति - इति। अद्य कालस्य आवश्यकता तु सर्वस्य संस्कृतज्ञस्य भाषा सरला शुद्धा च भवेत् इति। तादृशं संस्कृतम् एव सरलमानकसंस्कृतम् इति। अतः तस्य अभ्यासः सर्वेण अपि संस्कृतज्ञेन करणीयः।
उपरितनं पुस्तकद्वयं सर्वः अपि पठेत्। तत् पुस्तकद्वयं संस्कृतभारत्याः जालपुटे क्रेतुम् अर्हति। तेन सह सरलमानकसंस्कृतं नाम किम्, तद् किमर्थम् आवश्यकं तस्य स्वरूपं किम् इत्य़पि सर्वेण ज्ञातव्यम्। अद्यतनी आवश्यकता नाम सरलमानकसंस्कृतस्य प्रयोगः। तद्विषये ज्ञातुम् अग्रे निर्दिष्टं सङ्केतं / पिञ्जं णुत्वा भारतसर्वकारेण प्रकाशितः सरलमानकसंस्कृतम् इति आलेखः प्राप्यतां पठ्यतां च -
भवतः लेखनाभ्यासाय मम किञ्चित् साहाय्यं भवितुम् अर्हति। तद् इत्थम् –
1. भवान् संस्कृतेन पृष्टपरिमितं (ततः न्यूनम् अपि) किञ्चित् लिखित्वा ईमेलमाध्यमेन मह्यं प्रेषयेत्। तद् लेखनं कमपि विषयं स्वीकृत्य लिखितं भवितुम् अर्हति, अन्यभाषातः अनुवादः भवितुम् अर्हति, ट्विटर अथवा फेस् बुक् इत्यत्र भवान् यद् लिखितवान् तद् भवितुम् अर्हति, आहत्य संस्कृतेन लिखितम् अनूदितं वा भवेत्। अनुवादकरणम् एव भवतः सरलतायै भवेत्।
2. अहं तद् दृष्ट्वा यत्र दोषः अस्ति तत्र रक्तवर्णेन, यत्र सरलता अपेक्षिता तत्र पीतवर्णेन च चिह्नं कृत्वा भवते प्रतिप्रेषयेयम्। तत्र कः परिष्कारः भवेत् इति भवता एव पुनः अन्वेष्टव्यम्। न ज्ञातं चेत् मया कथयिष्यते, चिन्ता न कार्या।
3. भवान् परिष्कारकार्यं कृत्वा यदा सज्जः भविष्यति तदा भवतः दूरभाषासङ्ख्यां मां सूचयेत्। तदनन्तरम् उभयोः अनुकूले समये अहं भवते दूरभाषां कुर्याम्। तदा आवां शुद्धताशुद्धतयोः चर्चां कुर्याव च।
4. मम ईमेल – info@chamuks.in
5. भवान् भवतः ईमेलमध्ये भवतः 1.नाम 2.वयः 3.राज्यम् 4.कार्यम्(किं करोति) इति एतान् चतुरः अंशान् भवतः परिचयरूपेण लेखिष्यति चेत् तद् मम आनन्दाय भवेत्।
6. भवता य़ुनिकोड् लिप्या टङ्कित्वा मह्यं प्रेषणीयम्।
7. प्रक्रिया एवं भविष्यति। प्रथमः घट्टः – भवदीयस्य लिखितस्य अनुवादस्य वा टङ्कनं कृत्वा भवान् प्रेषयेत्। द्वितीयः घट्टः – अहं चिह्नं कृत्वा प्रतिप्रेषयेयम्। तृतीयः घट्टः – भवान् सूचितस्य परिष्कारस्य विषये चिन्तनं कुर्यात्। चतुर्थः घट्टः – दूरभाषामाध्यमेन चर्चा - (भवता कृतः परिष्कारः निवेद्येत, मया तद्विषये उच्येत च)। पञ्चमः घट्टः – अन्तिमतया परिष्कृत्य शुद्धां प्रतिकृतिं भवान् मह्यं प्रेषयेत्। एवं पञ्चसु घट्टेषु एतद् कार्यं भविष्यति।
8. मयीमासस्य 3 दिनाङ्कं यावत् एषः कार्यक्रमः भवेत् इति इदानीन्तनः निश्चयः। अग्रे किम् इति तदा चिन्तयिष्यामः। तावत् पर्यन्तं यावन्तः अपि प्रेषयेयुः तेषां सर्वेषां लेखान् द्रक्ष्यामि।
9. विशेषनिवेदनम् - भवता टङ्कनानन्तरम् अक्षरशुद्धतादृष्ट्या पुनःपुनः परिशील्यताम्। अन्यथा अक्षरपरिष्कारकार्ये एव (प्रूफ रीडिङ्ग् कार्ये एव) मम समयः गच्छेत्। पुनः पुनः परिशीलनेन भवान् एव बहून् भाषादोषान् सरलतररूपाणि च जानीयात्।
10. यः कोपि संस्कृतज्ञः एतस्य अवसरस्य उपयोगं कर्तुं शक्नोति। यावदधिकं जनाः भागं वहेयुः तावद् मम ज्ञानम् अपि वर्धेत। य़तः अहम् अपि छात्रः एव। अतः भवतः परिचितान् अन्यान् सर्वान् एतदर्थं सूचयितुं शक्नोति। विश्वे य़त्र कुत्रापि विद्यमानः अत्र भागं वोढुं शक्नुयात्। अतः अधिकाधिकजनाः सूच्यन्ताम्।
11. सर्वस्य अपि लेखनस्य कृते द्वौ निकषौ – लिख्यमानं भाषादृष्ट्या सरलं भवेत् मानकं(शुद्धं) च भवेत् इति।
12. अवधीयताम् – एतस्यां योजनायां चतुर्थे घट्टे प्रत्येकं जनस्य आवश्यकतानुसारं तस्य तस्य विशिष्टः एव पाठः (One to one) भविष्यति।