द्वाविंशतितमः संस्कृतसप्ताहः सम्पन्नः। गतेषु केषुचित् वर्षेषु सप्ताहस्य आचरणे अस्मदीयानाम् उत्साहस्य उच्चावचं दृष्टवतः मम गते मासे देशे बहुभिः सह संस्कृतसप्ताहस्य विषये सम्भाषणम् अभवत्। तदा एतस्मिन् वर्षे संस्कृतसप्ताहाय सज्जता अपर्याप्ता इति अभासत। अतः संस्कृतसप्ताहः कथम् आचरणीयः इति विषये कञ्चित् लेखम् आङ्ग्लभाषया हिन्दीभाषया च लिखित्वा प्रसारितवान्। इदानीं तस्य संस्कृतसप्ताहस्य आचरणेन अस्माकं पाठाः के इति विषये मम अवलोकनानि भवतः चिन्तनार्थम् इतरसंस्कृतज्ञैः सह विनिमयाय चर्चार्थं च संस्कृतेन लिखामि।
संस्कृतसप्ताहस्य आचरणस्य प्रथमसङ्कल्पसमये उद्देश्यद्वयम् आसीत्। अ) संस्कृतभाषायाः प्रयोगक्षेत्रस्य व्याप्तिः वर्तमानं सीमितपरिधिम् अतिक्रम्य विस्तृता भवेत्, संस्कृतं राष्ट्रजीवनस्य सर्वाणि क्षेत्राणि प्रविशेत् च। इ) विविधेषु व्यवसायेषु अन्यान्यक्षेत्रेषु च विद्यमानाः संस्कृतक्षेत्रेतराः जनाः संस्कृतक्षेत्रं प्रति आकृष्टाः भवेयुः, ते संस्कृतपठनस्य प्रारम्भं कुर्युः च इति। एतत् उद्देश्यद्वयम् अद्य सर्वेण अपि संस्कृतानुरागिणा अवगन्तव्यम् अस्ति। उद्देश्यस्य स्पष्टावगमनं विना कार्यक्रमस्य आयोजनं निष्फलम् अथवा अल्पफलकारि भवेत्। एतया दृष्ट्या संस्कृतसप्ताहस्य सम्बन्धे देशे आयोज्यमानेषु कार्यक्रमेषु बहुत्र पुनश्चिन्तनस्य आवश्यकता अस्ति इति भासते।
उद्देश्यानुगुणं कार्यक्रमेण भवितव्यं चेत् तदर्थं संस्कृतविश्वविद्यालये संस्कृतमहाविद्यालये पाठशालासु वा संस्कृतज्ञस्य कस्य अपि भाषणम् अतिथित्वम् अध्यक्षता वा न भवेत्। तत्र तु आवर्षं तेषां भाषणानि भवन्ति एव। पुनः संस्कृतसप्ताहे अपि तेषाम् एव भाषणं चेत् नूतनानां योजनं कथं भवति ? अतः अन्ये अर्थात् संस्कृतेतराः जनाः एव आह्वातव्याः। कुलपतिः प्राचार्यः विभागाध्यक्षः च सर्वः अपि सभायां श्रोतृषु एव अन्यतमत्वेन उपविशेत्। मया अद्य पर्यन्तम् एते स्वीयसंस्थाने सभायां श्रोतृभिः सह उपविष्टाः न दृष्टाः। भवन्तः अपि इतःपरम् एतत् परिशीलयेयुः। किञ्च संस्कृतज्ञानां भाषणानि कुत्र भवेयुः ? संस्कृतेतरसंस्थासु संस्कृतसप्ताहकार्यक्रमान् कारयित्वा तत्र संस्कृतज्ञानां भाषणानि कारणीयानि इति योजना भवेत्।
प्रतिवर्षं संस्कृतसप्ताहकार्यक्रमेषु नवीनता अस्ति चेत् सा जनानां चित्ताकर्षणाय भवति। कार्यकर्तॄणाम् अपि कार्योत्साहवर्धनाय भवति। विनूतनः कार्यक्रमः उल्लेख्या “वार्ता” भवति। यथा भाषणकर्तारः नूतनाः स्युः इति अपेक्ष्यते तथा भाषणविषयाः अपि नूतनाः स्युः।
संस्कृतसप्ताहस्य कार्यक्रमाणां प्रतिवर्षं काचित् दिशा निश्चिता भवति चेत् कार्यकर्तॄणां सौकर्यं भवति। लोकानां प्रकृतिः एतादृशी जाता यत् सर्वस्य अपि स्मारणम् आवश्यकं भवति। इदानीं प्रश्नः केनचित् जनेन संस्थायाः सङ्घटनस्य सर्वकारस्य वा संस्कृतसप्ताहविषयकं स्मारणं कारणीयम् उत विपरीततया सर्वकारेण संस्थया सङ्घटनेन वा जनानां स्मारणं कारणीयं वा इति। उभयथा अपि भवतु नाम। परन्तु संस्कृतज्ञानां स्मारणस्य आवश्यकता न भवेत्। स्मारणं क्रियते चेत् अपि अन्तिमक्षणे इति न भवेत्, पर्याप्तमात्रेण पूर्वमेव सूचना भवेत्।
बहुत्र विनूतनाः कार्यक्रमाः अभवन्। तेषाम् उल्लेखाय अत्र स्थलं न पर्याप्तं भवेत्। तेषां कार्यक्रमाणां परिणामाः लाभाः वा अपि उत्तमाः आसन् इति दृष्टम्। ते सर्वे आयोजकाः अभिनन्द्याः।
संस्कृतसप्ताहे पिष्टपेषणं न भवेत्। अहो रूपम् अहो ध्वनिः इति परस्परप्रशंसा न भवेत्। मञ्चे पूर्वं दृष्टस्य एव मुखस्य पुनः दर्शनं न भवेत्। भवन्तः सर्वे संस्कृतप्रचारं कुर्वन्तु इति परोपदेशः अपि न भवेत्।
संस्कृतसप्ताहः संस्कृतज्ञानां शक्तेः प्रदर्शनाय अवसरः। कूपात् बहिः आगमनाय अवसरः। बाह्यजगतः दर्शनाय अवसरः। प्रतिभायाः उपयोगस्य अवसरः। सक्रियतायाः परीक्षणस्य अवसरः। संस्कृतप्रेम्णः प्रमाणीकरणस्य अवसरः। पाठपठनस्य अवसरः च।
संस्कृतसप्ताहे प्रत्येकं संस्कृतमहाविद्यालये विद्यालये वा (देशे सामान्यरूपेण उत्तमाः सहस्रं संस्कृतस्य महाविद्यालयाः/विद्यालयाः इति चिन्त्यताम्) बहूनां नूतनानां पाठ्यक्रमाणां लोकार्पणं पाठनस्य शुभारम्भः च भवेत्। ते च पाठ्यक्रमाः भाषाभ्यासस्य, काव्याध्ययनस्य, शास्त्राध्ययनस्य वा स्युः। ते पुनः स्वल्पावधिकाः, दीर्घावधिकाः, विविधस्तरीयाः, विविधोद्देशयुक्ताः, विषयाधारिताः, ग्रन्थाधारिताः, कौशलाधारिताः, संस्कृतज्ञानप्रणाल्याधारिताः, प्रमाणपत्राधारिताः, एकशिक्षकाधारिताः, बहुशिक्षकाधारिताः, अभिमुखाः, आभासीयाः, सशुल्काः, निःशुल्काः इति बहुधा भवेयुः। तेषां पाठ्यक्रमाणां कृते विशालसमाजतः शिक्षार्थिसङ्ग्रहाय अपि छात्राः प्राध्यापकाः च एव प्रयत्नं कुर्युः। तद्विषये स्पर्धा भवेत्। एतेन वास्तविकरूपेण संस्कृतस्य विकासः भविष्यति। अन्यथा केवलं सप्ताहभाषणैः वक्तॄणां भाषणतृप्तिमात्रं भवेत्।
अग्रिमवर्षपर्यन्तम् एते सर्वे अंशाः अस्माकं स्मरणे तिष्ठेयुः किम् ? तिष्ठन्ति चेत् सम्यक् पूर्वसज्जतां पूर्णसज्जतां च कृत्वा उपरि उक्तान् सर्वान् अपि अंशान् वयं क्रियायाम् आनेतुं शक्नुयाम। तदा संस्कृतप्रचारे त्रैविक्रमं पदं न्यसितुं शक्नुयाम। संस्कृतशिक्षणे सीमोल्लङ्घनं कर्तुं शक्नुयाम। एकसप्ताहस्य कार्यक्रमाय एकवर्षस्य पूर्वसज्जता कृता चेत् संस्कृतस्य किं वा भवेत् इति ऊह्यताम्। केचन जनाः केचन महाविद्यालयाः वा एतदर्थं प्रेरिताः भवेयुः चेत् असाध्यम् अपि साध्यं भवेत्।