संस्कृतस्य सर्वेषां विश्वविद्यालयानां महाविद्यालयानां पाठशालानां च सर्वः अपि छात्रः संस्कृतेन वदेत् लिखेत् च इति अपेक्षा तु न केवलं तस्य छात्रस्य अपि तु सर्वेषां संस्कृतानुरागिणाम् अपि भवति। परन्तु तद् न जायमानम् अस्ति। सर्वः संस्कृतशिक्षकः अपि संस्कृतेन सुष्ठु वदेत् इति अपेक्षा अस्ति। परं तदपि न जायमानम् अस्ति। किमर्थम् इत्युक्ते वर्तमानः कोपि भाषाभ्यासपाठ्यक्रमः तदेकलक्ष्यकेन्द्रितः नास्ति। न वा अद्यावधि कुत्रापि तदेकपरिणामकेन्द्रितस्य सावधिकस्य अभिव्यक्तिप्रधानस्य सम्पूर्णस्य अर्थात् उद्दिष्टफलान्तस्य च पाठ्यक्रमस्य निर्माणस्य पाठनप्रयोगस्य वा प्रयत्नः न जातः इति भाति। सा एका न्यूनता एव सर्वस्याः समस्यायाः मूलम् अस्ति।
अतः करणीयस्य कार्यस्य उद्देश्यस्य स्पष्टं निरूपणं करणीयम्। तद् इत्थम् - “संपूर्णे भारते प्रत्येकं संस्कृतच्छात्रः संस्कृतेन सरलतया धाराप्रवाहितया शुद्धतया च भाषणे लेखने च समर्थः भवेत् इत्येदर्थं छात्राणां शिक्षणाय अपेक्षितायाः नूतनायाः भाषाभ्याससामग्र्याः सरलमानकसंस्कृतेन निर्माणम्” इति। एतत् कार्यम् इदानीम् अविलम्बेन करणीयम्।
अत्र अहं भवताम् अवधानम् “असाध्यं साध्यं कुर्याम” इति मम पूर्वतनं लेखनं प्रति आक्रष्टुम् इच्छामि। सः लेखः यैः न पठितः ते कृपया https://www.chamuks.in/article_view?chamuks=VFVSUk5FNUVaekpQUkdzeFRYcE5QUT09 इत्यत्र पठेयुः इति मम प्रार्थना। तस्मिन् लेखने अपि “लक्ष्यं भवेत् आप्राक्शास्त्रि शोधस्तरं यावत् विद्यमानेषु ५०,००० छात्रेषु प्रत्येकं छात्रः एकवर्षाभ्यन्तरे संस्कृतभाषया सरलतया, शुद्धतया, धाराप्रवाहितया च भाषितुं लेखितुं च समर्थः भवेत्” इति विषये महान् आग्रहः दर्शितः। तद् लक्ष्यम् अंशतः अपि साधनीयं चेत् इदानीं शैक्षिकवर्षारम्भे एव भाषाभ्यासकारिण्याः नूतनपाठनसामग्र्याः विशेषतया निर्माणं करणीयम्। तत् सामग्रीनिर्माणं साधयितुम् इदानीं युद्धसज्जतारीत्या व्यूहरचनां कृत्वा कार्यकरणस्य आवश्यकता अस्ति।
कदाचित् भवतः एतत् कार्यं कर्तुम् इच्छा स्यात्, परन्तु कथं कर्तव्यम्, कथम् आरब्धव्यम् इति कल्पना न स्यात्। अतः भवतः साहाय्यार्थं कतिचन उपायाः अत्र सूच्यन्ते। व्यवहाराय अपेक्षिता न्यूनतमा पदावली, न्यूनतमाः वाक्यरचनाः निश्चेतव्याः, न्यूनतमाः वाक्यनियमाः संग्रहणीयाः, सामान्यदोषस्थानानि अभिज्ञातव्यानि च। तेषां पाठनाय अभ्यासाय च प्रसङ्गाः चेतव्याः, मौखिकलैखिककार्याणि च चिन्तनीयानि। एतान् विषयान् स्वयं चिन्तयित्वा संपादयति चेत् भवतः अधिकः लाभः भविष्यति, कार्यम् अपि योग्यतमं भविष्यति। परन्तु तदर्थं समयः नास्ति अवधानम् अपि नास्ति चेत् सिद्धमेव किञ्चित् आवश्यकं चेत् तदपि सूच्यते। मया लिखिते ‘संस्कृतकक्ष्या’ इति पुस्तके आधारभूतं संस्कृतम् इति कश्चन अध्यायः अस्ति यस्मिन् अत्यन्तम् उपयुक्ताः १०० वाक्यरचनाः, ५० शब्दाः, ५० धातवः, १०० अव्ययानि च दत्तानि। तानि यथावत् स्वीकर्तुम् अर्हन्ति। तस्मिन् एव पुस्तके अभ्यासाः इति कश्चन उपयोगयोग्यः अध्यायः अस्ति। (संस्कृतकक्ष्या इति पुस्तकं जालपुटे क्रेतुं शक्यते - https://www.samskritpromotion.in/Samskritakakshya पुनश्च संस्कृतभारत्याः भाषाशिक्षणसम्बद्धेषु पुस्तकेषु, संस्कृतसंवर्धनप्रतिष्ठानस्य विशिष्टोद्देशपाठ्यक्रमाणां पुस्तकेषु च ये अभ्यासाः प्रयुक्ताः तेषाम् अध्ययनं क्रियताम्। तादृशानाम् अभ्यासानाम् अनुकरणात्मकानां नूतनानाम् अभ्यासानां च द्वारा पूर्वोक्तस्य आधारभूतसंस्कृतस्य भाषाबिन्दूनां पाठनं करणीयम्। अनुभवानुसारं परिष्कारः कर्तव्यः। मासत्रयस्य पाठनेन एव भवतः काचित् विशिष्टा नूतना कल्पना पाठयोजना च अवगता भवेत्।
सर्वे अपि कस्यचित् काव्यस्य ग्रन्थस्य वा पाठनं कर्तुं शक्नुवन्ति। सिद्धं पाठ्यपुस्तकं पाठयितुम् अपि शक्नुवन्ति। परन्तु नूतनतया पाठ्यक्रमं रचयित्वा पाठान् च लिखित्वा पाठयितुं बहवः न शक्नुयुः। अतः तादृशानां साहाय्याय उपरितनाः उपायाः सूचिताः। भाषायाः पाठनं करणीयम् इति कथनापेक्षया भाषायाः अभ्यासः कारणीयः इति कथनं वरम्। अद्य सर्वेण संस्कृतप्राध्यापकेन, सः शिक्षाशास्त्रस्य साहित्यस्य वेदान्तस्य व्याकरणस्य वा कस्यचित् अपि विषयस्य प्राध्यापकः स्यात् नाम, सर्वेण अपि स्वच्छात्राणां संस्कृतभाषया भाषणेन लेखनेन वा अभिव्यक्तेः अभ्यासः कारणीयः। मासत्रये मासषट्के वा स्वस्य सर्वः छात्रः सरलतया धाराप्रवाहितया शुद्धतया च भाषणे लेखने य समर्थः कारणीयः। एतत् किञ्चन अनिवार्यं कार्यम्। प्रथमं करणीयं कार्यम्। अद्य पर्यन्तं न कृतम् इत्येव महत् कष्टकरं जातम्।
सर्वस्य अपि छात्रस्य संस्कृतेन अभिव्यक्तेः सम्यक् अभ्यासकारणेन विना अन्यस्य कस्यापि कार्यस्य कारणेन प्रयोजनं नास्ति। यथा छात्रैः विना कक्ष्या, धनं विना ‘एटिएम्’, प्राणैः विना कलेवरं च प्रयोजनाय न भवति तथैव अभिव्यक्तिं विना भाषा निरुपयुक्ता सती कालक्रमेण परित्यक्ता विस्मृता विसृष्टा अदृश्या अपसारिता उपेक्षिता स्थानच्युता वा भवेत्।
किं सर्वस्य अपि संस्कृतविश्वविद्यालयस्य, संस्कृतस्नातकोत्तरविभागस्य, संस्कृतस्नातकविभागस्य, संस्कृतमहाविद्यालयस्य संस्कृतविद्यालयस्य संस्कृतकक्ष्यायाः वा प्रवेशद्वारे प्रविविक्षूणां सर्वेषां दृष्टिपथे यथा भवेत् तथा किञ्चन बृहत् फलकं स्थापयितुं शक्येत ? यत्र सद्यःकालीनम् उद्देश्यकथनं लिखितं भवेत् “अस्माकं प्रत्येकं छात्रः षण्मासाभ्यन्तरे संस्कृतेन सरलतया धाराप्रवाहितया शुद्धतया च भाषणे लेखने च समर्थः भवेत्” इति ? किम् एतत् लक्ष्यं विश्वविद्यालयस्य विद्यापरिषदि स्वीकृतं भवेत्? किं प्रत्येकं प्राध्यापकः एतत् लक्ष्यं साधयितुं प्रतिदिनं प्रयासरतः भवेत्?
छात्राः तु इच्छन्ति एव। तेषां योग्यं मार्गदर्शनं साहाय्यं प्रोत्साहनं च आवश्यकम्। छात्राणां भाषाभ्यासकारणं प्राध्यापकानां न्यूनतमम् आद्यम् अनिवार्यं च कर्तव्यम्। तस्मात् कर्तव्यात् अस्माकं च्युतिः न भवेत्। छात्रस्य रुचिः नास्ति, स्तरः नास्ति इति कारणानि अनुक्त्वा कार्यं कथं साधयेम, कथं साधितवन्तः च इति तद् वक्तव्यम् अस्माभिः।
सरलतया ! धाराप्रवाहितया !! शुद्धतया !!!