अवतरः अवसरत्वेन!

spf

संस्कृतस्य अवतरः अर्थात् ह्रासः (अवतरणम्, अधः आगमनम्) आ शताधिकवर्षेभ्यः प्रचलन् अस्ति चेदपि गतेषु केषुचित् वर्षेषु महता वेगेन जायमानः आसीत्। कोरोनाकारणेन अग्रिमेषु वर्षेषु तु वेगोत्कर्षेण अवतरः भवेत्। केन्द्रसर्वकारेण धनव्यये प्रतिशतं पञ्चविंशतेः न्यूनीकरणाय इदानीं सर्वेभ्यः मन्त्रालयेभ्यः सूचनापत्रं प्रेषितम्। अग्रे इतोपि कठिनतरक्रमाः संभाव्यन्ते। अवश्यंभाविन्याम् आर्थिकमन्दतायां भाषाकलासाहित्यादीनां विषयाणां कृते दीयमाने अनुदाने कर्तरीप्रयोगः भवेत् एव। दानावलम्बिनां सेवासंस्थानां दानपात्राणि अपि रिक्तानि अपूर्णानि वा तिष्ठेयुः।

सङ्ख्यावतरः गुणस्तरावतरः इति अवतरः (decline) द्विधा। सङ्ख्यायाः अवतरे प्रकृतं छात्रसङ्ख्या, संस्कृतविद्यालयसङ्ख्या, शिक्षकपदसङ्ख्या इति प्रधानतया तिसृणाम् अवतरः चिन्ताविषयः अस्ति। गुणस्तरस्य अवतरः नाम शिक्षकाणां स्तरः, पाठनविधीनां स्तरः, पाठ्यक्रमाणां स्तरः, परीक्षापद्धतीनां स्तरः, छात्राणां स्तरः च इति एतेन आद्यताक्रमेण प्रधानतया पञ्चानां गुणस्तरस्य अवतरः चिन्ताविषयः भवेत्। सङ्ख्यावर्धने प्रथमं छात्रसङ्ख्यावर्धनं तदनु शिक्षकसङ्ख्यावर्धनं च चिन्तनीयं भविष्यति। गुणस्तरवर्धने तु प्रथमं शिक्षकगुणस्तरः अन्ते छात्रगुणस्तरः च चिन्तनीयः भविष्यति। पुनः च सङ्ख्यागुणस्तरयोः मध्ये प्रथमं कस्य वर्धनं चिन्तनीयम् इति पृष्टे सति प्रथमं गुणस्तरवर्धनं चिन्तनीयम्। तत्रापि छात्रशिक्षकयोः मध्ये प्रथमं शिक्षकगुणस्तरवर्धनं चिन्तनीयम् इति औचित्यपूर्णम् उत्तरं भवति। यतः स्वतः आरम्भकरणं सरलम्। किञ्च संस्कृतशिक्षाजगतः केन्द्रबिन्दुः वक्ता धर्ता कर्ता कारयिता सर्वः अपि भवति शिक्षकः। तस्मात् अवतरस्य अवसरत्वेन परिवर्तनस्य मार्गारम्भः संस्कृतशिक्षकात् भवेत्!

संस्कृतस्य क्लेशाः तु अनन्ताः। परं संस्कृतज्ञाः वयं हताशाः नैव। न वा निष्क्रियोपहताः स्मः। सर्वेषु गतेषु अपि ‘बुद्धिस्तु मा गात् मम’ इति कथयितुः चाणक्यस्य चिन्तनपारम्पर्यम् अस्माकम्। तादृशानाम् अदुर्बलानां धीर्बलानां संस्कृतज्ञानाम् अस्माकं पुरतः विद्यमानं स्पर्धाह्वानं नाम वर्तमानस्य अवतरस्य अवसरत्वेन परिवर्तनं कथम् इति। तदर्थं बहवः उपायाः भवितुम् अर्हन्ति। अपेक्षितं परिवर्तनम् आनेतुं चिन्तनं कथं करणीयम् इति विचारयामः। धनाभावः भविष्यति इति आरम्भे एव उक्तम्। धनम् अधिकम् अर्जनीयं चेत् छात्रसंख्या वर्धनीया। छात्रसंख्यावर्धनाय शिक्षकैः नावीन्यमार्गणं करणीयम्, पाठ्यक्रमाः आकर्षकाः जनावश्यकतानुगुणाः च स्युः, छात्रप्राप्तिक्षेत्रस्य विस्तारः करणीयः, अधीतसंस्कृतानाम् आजीविकावर्धनोपायाः चिन्तनीयाः।

शरीरस्थरोगस्य उपशमः केनचित् एकेन औषधेन न भवति चेत् औषधान्तरं स्वीक्रियते। तेन अपि न भवति चेत् पुनः अपरं स्वीक्रियते। कदाचित् शल्यक्रिया अपि करणीया भवति। इदानीं संस्कृतशिक्षायाः यः अवतररोगः अस्ति तस्य निवारणाय औषधपरिवर्तनं शल्यक्रिया वा करणीया चेत् करणीया। तत्र सङ्कोचः न कर्तव्यः। औषधपरिवर्तनं नाम पाठनपद्धतिपरिवर्तनम् अस्माकं संस्कृतप्राध्यापकानां चिन्तनरीतिपरिवर्तनं च । शल्यक्रिया नाम पाठ्यक्रमेषु परिवर्तनानि। अन्ये उपचाराः नाम विषयविस्तारः क्षेत्रविस्तारः तन्त्रविस्तारः इत्यादयः। (स्थलाभावात् सर्वेषां विवरणम् अत्र न शक्येत। अग्रिमलेखेषु क्रियेत।) यत् यत् करणीयं तस्य सर्वस्य करणाय एषः कश्चन अवसरः। अग्रे जीवनीयं चेत् इदानीं किमपि करणीयम्। कोरोना केवलं मानवानां जायमानम् अस्ति इति मा चिन्त्यताम्। कोरोनादुष्परिणामः संस्कृतशिक्षायाम् अपि भविष्यति यम् अस्मासु बहवः इदानीम् ऊहितुम् अपि न शक्नुयुः। अतः कोविदरोगकालः रोगग्रस्तसंस्कृतशिक्षायाः कायचिकित्सार्थं संस्कृतकोविदानां प्राध्यापकानां कृते किञ्चन स्पर्धाह्वानं (challenge) अस्ति।

साम्प्रतम् अस्मिन् कठिनसमये अपि भारते विदेशेषु च संस्कृतभारत्या प्रतिदिनं सञ्चाल्यमानासु विविधकक्ष्यासु माकिं पञ्चविंशतिसहस्रं जनाः विविधस्तरेषु संस्कृतस्य विविधविषयान् पठन्तः सन्ति इति एषः अपि कश्चन महान् विषयः। एतस्याः सफलतायाः प्रमुखकारणानि – 1. सरलसंस्कृतमाध्यमेन पाठनम् 2. कार्यकर्तॄणां समर्पणमनोभावः परिश्रमशीलता च 3. सङ्घटनबलम् इति। वस्तुतः वर्षाभ्यन्तरे वर्षद्वयाभ्यन्तरे संस्कृतविश्वविद्यालयैः तदीयपरिसरैः सम्बद्धमहाविद्यालयैः वा अत्र उपरि या सफलता दर्शिता तदपेक्षया शतगुणम् अधिकं साधयितुं शक्येत यदि संस्कृतप्राध्यापकैः किञ्चित् व्यूहात्मकं चिन्तनं क्रियेत। संस्कृतभारत्याः सरलसंस्कृतं समर्पणत्वं जनबलम् इति त्रिभिः सह महाविद्यालयविश्वविद्यालयानां पाण्डित्यं प्रमाणपत्रं संसाधनम् इति त्रयाणां संयोगः स्यात् तर्हि अद्भुतमेव किञ्चित् कर्तुं शक्येत। एतेन सर्वेषाम् अपि जय-जय-स्थितिः भविष्यति। पूर्वतनानि कतिचन उदाहरणानि स्मर्यन्ताम्। विंशतेः वर्षेभ्यः प्राक् राष्ट्रियसंस्कृतसंस्थानेन संस्कृतभारत्या च मिलित्वा अनौपचारिकशिक्षणकेन्द्रयोजना, युजिसि-संस्कृतभारती-सहभागितया चालितानि सामान्यमहाविद्यालयेषु सरलसंस्कृतशिक्षणकेन्द्राणि, सर्वसंस्कृतसंस्थाभिः संभूय कृतः विश्वसंस्कृतपुस्तकमेलः तथा च संस्कृतवर्षकार्यक्रमः इत्यादयः कथं महतः परिणामान् अजनयन् इति। वयम् एतद् अपि जानीमः यत् अनन्तरं संस्कृतभारतीं विना तासां योजनानां किम् अभवत् इति। अतः सर्वेभ्यः संस्कृतप्राध्यापकेभ्यः प्राचार्येभ्यः कुलपतिभ्यः च मम कश्चन निवेदनात्मकः परामर्शः यत् भवद्भिः संस्कृतभारती-संस्कृतसंवर्धनप्रतिष्ठानम्-इत्यादिभिः सह संमिल्य कार्यकरणाय आशयपत्रं (MoU) करणीयम् इति। यदि अस्माभिः एवं संभूय कार्यं क्रियेत किञ्च जनापेक्षायाः(demand) अनुगुणं फलदाः परिणामदाः उद्योगदाः ज्ञानदाः धनदाः छात्रदाः च नूतनाः पाठ्यक्रमाः रच्येरन् तर्हि लक्षशः कोटिशः अपि जनान् प्राप्य वयं तान् पाठयितुं शक्नुयाम। तस्मिन् एव मार्गे अग्रे गच्छेम चेत् न केवलम् आर्थिकस्वावलम्बनं स्यात् अपि तु सहस्रशः नूतनेभ्यः युवशिक्षकेभ्यः आजीविकाः अपि स्रष्टुम् शक्नुयाम। ज्ञानवतः कौशलवतः च सर्वान् अपि अधीतसंस्कृतान् यूनः अस्मिन् पाठनकर्मणि सवेतनं योजयित्वा तेषां भविष्यं सुगमं कर्तुं शक्नुयाम। एषः एकः उपक्रमः, कार्यक्रमः, मार्गः वा अग्रे शतशः उपक्रमाणां कार्यक्रमाणां मार्गाणां वा कृते प्रारम्भात्मकः निमित्तात्मकः च पदनिक्षेपः भवेत्।

भोः प्राध्यापकमित्राणि! समस्तकाठिन्यार्णवतारणसेतवः भवन्तः। जगति चतुर्थी औद्योगिकक्रान्तिः आरब्धा यस्यां कृतकमेधाशक्ति-(AI – Artificial Intelligence) -आधारितस्य तन्त्रज्ञानस्य उपयोगः क्रियमाणः अस्ति। सद्यः तु Digital Skills येषाम् अस्ति ते Job Market मध्ये अग्रे सन्ति। एवं स्थिते सति वयम् अस्माकं प्रियान् संस्कृतच्छात्रान् मानोन्नतवदनान् सर्वदेशप्रतीक्ष्यान् च कथं न कुर्याम?


By :- Chamu Krishna Shastry | Views:- 3763 | 10-06-2020 09:26 PM