संस्कृतेन कथाप्रसारः

spf

“संस्कृतेन कथाप्रसारः” इति एषः कार्यक्रमः संस्कृतस्य शिक्षणाय प्रचाराय च अद्भुतपरिणाकारी भवेत्। एतेन एकेन कार्येण एव आदेशम् आविश्वं च कोटिशः गृहेषु संस्कृतस्य प्रवेशः भवेत्, संस्कृतं भाष्यमाणा भाषा, सा सरला अस्ति, अद्यापि तया भाषितारः बालाः सन्ति, अहमपि पठितुं शक्नुयाम् इति विचारप्रचारः, विद्यालयेषु अनायासेन संस्कृतमाध्यमस्य प्रारम्भाय अनुकूलवातावरणम्, शिक्षकाणां संस्कृताभ्यासः, शुद्धभाषायाः पुनःपुनः श्रवणस्य सर्वेषाम् अपेक्षापूर्तिः, संस्कृतच्छात्राणां कृतिशीलतायाः प्रदर्शनाय सदवकाशाः, संस्कृतभारती, विद्याभारती इत्यादीनां सङ्घटनानां कार्यकर्तॄणां शक्तिवर्धनाय अनन्ताः अवसराः, विश्वविद्यालयानां छात्रशक्तेः विनियोगाय मार्गाः इति एवं प्रकारेण अनेकानि फलानि भवेयुः।

सम्भाषणसन्देशे बालमोदिनी इति विभागे गतेषु पञ्चविंशत्यां वर्षेषु सहस्रं यावत् कथाः प्रकाशिताः। ताः www.sambhashanasandesha.in इति जालपुटे अवतारणाय लभ्यन्ते। ततः यथेष्टं कथाः अवतार्यन्ताम्। अपि च संस्कृतशिक्षकाः स्वेषां विद्यालयच्छात्राणां द्वारा, संस्कृतानुरागिणः स्वेषाम् अपत्यानां पौत्राणां दौहित्राणां वा द्वारा अथवा गृहसमीपस्थानां बालानां द्वारा कथानां वाचनस्य अभ्यासं कारयेयुः। बालैः कथाः कण्ठस्थीकृताः चेत् अत्युत्तमं भवेत्। एतत् कार्यं कारयितुं बालानां प्रौढानां वा संस्कृतज्ञानम् अनिवार्यं नास्ति। देवनागरीलिप्या विद्यमानाः संस्कृतकथाः पठितुं सामर्थ्यं पर्याप्तम्। पुनः बालानां छात्राणां वा द्वारा उच्यमानायाः कथायाः वीडियोचित्रीकरणं ध्वनिमुद्रणं वा चलदूरभाषायन्त्रेण कृत्वा तानि सोशियल् मीडिया इति कथ्यमानेषु फेस्बुक्, वाट्साप् समूहाः, टेलिग्राम, इन्स्टाग्राम, कू, सिग्नल, ट्विटर इत्यादिषु स्थापनीयानि। बालाः, छात्राः, पितरः, शिक्षकाः वा ये केपि स्थापयेयुः। पुनः तेषां दर्शकसङ्ख्या अधिका भवेत् इति प्रयत्नः अपि करणीयः। एकस्य बालस्य छात्रस्य वा द्वारा एका एव कथा इति नास्ति। यावत्यः कथाः शक्यन्ते तावत्यः कथाः कण्ठस्थीकृत्य अथवा अभ्यस्य स्थापनीयाः। यावत् अधिकं कुर्युः तावत् तेषां संस्कृताभ्यासः संस्कृतप्रचारः च अधिकः भवेत्।

किमर्थं सम्भाषणसन्देशस्य बालमोदिनीतः कथाः स्वीक्रियन्ताम् इति पृष्टे सति कारणम् एतदेव यत् बालमोदिनीकथानां भाषा सरला शुद्धा च अस्ति इति। आवश्यकं चेत् अन्यमूलेभ्यः अपि कथाः स्वीकर्तुं शक्यन्ते। कथायाः वीडियोमुद्रणस्य ध्वनिमुद्रणस्य वा समये कथाकथनस्य अन्ते कथा सम्भाषणसन्देशस्य कस्य वर्षस्य कस्मात् अङ्कात् उद्धृता इति वक्तुं शक्यते चेत् उत्तमं भवेत् येन यः कोपि श्रोता तस्याः कथायाः लिपिरूपम् इच्छति चेत् तत् जालपुटात् स्वीकर्तुं शक्नोति। बालकथानां बहूनि पुस्तकानि अपि लभ्यन्ते। ततः अपि या कापि कथा स्वीकर्तुं शक्यते।

कस्यचित् विद्यालयस्य शिक्षकः शिक्षिका वा यदि एवं स्पर्धाह्वानं स्वीकर्तुं शक्नोति तर्हि बहु सम्यक् भवेत् यत् मम विद्यालयस्य छात्राणां द्वारा 1008 कथानां प्रसारणं कारयिष्यामि इति। 108 कथानां प्रसारणं तु सर्वेण अपि कारणीयम् एव। एतत् कार्यं किञ्चन व्रतं काचित् वाग्देवीपूजा इति श्रद्धया क्रियताम्। एकाम् एव कथाम् एकाधिकाः छात्राः वक्तुं प्रसारयितुं च शक्नुयुः। तदा कस्य छात्रस्य कथनं समीचीनतरम् इति स्पर्धा अपि भवितुम् अर्हति। अहं 1008 छात्राणां द्वारा कारयेयम्, मम विद्यालयस्य सर्वस्य अपि छात्रस्य द्वारा कारयेयम्, 108 छात्राणां द्वारा तु कारयेयम् एव इति एवम् अपि बहुविधरूपेण शिक्षकाः प्रतिज्ञां कर्तुं शक्नुवन्ति। शिक्षकाः इव कस्यचित् नगरस्य कार्यकर्तारः अपि मिलित्वा सामूहिकरूपेण वयम् एतावतां बालानां द्वारा कारयिष्यामः इति प्रतिज्ञां कर्तुं शक्नुयुः।

छात्राणां सौकर्याय शिक्षकेण कथानां ध्वनिमुद्रणं कृत्वा छात्रेभ्यः प्रेषयितुं शक्यते। परन्तु छात्राणां सर्वासां कथानां कुत्रचित् एकत्र एव स्थापनं न उचितम्। तद् एतस्याः योजनायाः मूलसङ्कल्पनायाः एव विरुद्धं भवति। समूहमाध्यमेषु अधिकाधिकेषु स्थानेषु स्थाप्यन्ते चेदेव अधिकाधिकाः जनाः कथाः शृणुयुः, तदा एव प्रचारः अधिकः भवेत् च।

संस्कृतभाषणं संस्कृताभ्यासः च त्रिभिः कारणैः अथवा त्रिषु अन्यतमेन कारणेन जनप्रियः छात्रप्रियः च भवितुम् अर्हति। आजीविका-प्रदायकम्(धनार्जकम्), विकासस्वास्थ्यादि-लाभकारकम्, प्रतिष्ठादायकम् इति तानि त्रीणि कारणानि। तृतीयं प्रतिष्ठादायकम् इति यत् अस्ति तत् वर्तमानयोजनया सह युक्तं चेत् संस्कृतं बहुशीघ्रं प्रसरेत्। किञ्च तत् अस्मदधीनम् अस्ति। संस्कृतेन कथाकथनम् इत्येतत् प्रतिष्ठाविषयः कारणीयः। पूर्वं भारते आङ्ग्लशिक्षणं प्रतिष्ठाविषयः आसीत्। ब्रिटिशशासनकाले आङ्ग्लभाषणम्, टै-सूट्-धारणम्, अश्वारोहणम् इत्यादयः प्रतिष्ठाविषयाः आसन् इति वयं जानीमः एव। इदानीम् अपि बहवः पितरः अपत्यस्य आङ्ग्लभाषणं गौरवास्पदं मन्यन्ते। संस्कृतेन कथाकथयितुः सर्वस्य अपि छात्रस्य प्रशंसा भवेत्, सम्माननं भवेत्, बहुत्र उल्लेखः भवेत्, छात्रस्य पित्रोः अपि प्रशंसा, सम्माननम् उल्लेखः च भवेत्। कौटुम्बिकमेलनेषु सामाजिकमेलनेषु वा छात्रेण कथा वाचनीया। फेसबुक् इत्यादिषु कथानां व्यापकः प्रचारः भवेत् इति प्रयत्नः कर्तव्यः। वयं किमपि गृहं गच्छेम चेत् तत्र बालाः सन्ति चेत् संस्कृतेन कथा उच्यताम् इति ते वक्तव्याः।

संस्कृतशिक्षकैः तु एतत् कार्यं करणीयम् एव। परन्तु एतत् केवलं संस्कृतशिक्षकाणां कार्यम् इति मा चिन्त्यताम्। सर्वेण अपि संस्कृतानुरागिणा एतत् कार्यं करणीयं कारणीयं च। प्रत्येकस्मिन् गृहे एतत् कार्यं भवेत्। ये संस्कृतं न जानन्ति ते अपि एतत् कर्तुं कारयितुं च शक्नुयुः इत्येव एतस्य कार्यक्रमस्य वैशिष्ट्यम्।

येषां बालानां तत्पितॄणां वा फेस्बुक् इत्यादिषु सोशियल् मीडिया इत्याख्येषु स्वीयं स्थानं न भवति तेषां कृते अस्माभिः पर्यायव्यवस्था चिन्तनीया।

प्रत्येकं संस्कृतशिक्षकाय संस्कृतकार्यकर्त्रे च स्पर्धाह्वानम् एतदेव भविष्यति यत् सः कतीनां छात्राणां/बालानां द्वारा कतीनां कथानां वाचनं कारयिष्यति इति।

प्रत्येकं बालस्य मुखं संस्कृतकथाकथनेन पूतं भवेत्। प्रत्येकं कथा शतशः कर्णकुहरेषु प्रविशेत्। प्रत्येकं संस्कृतशिक्षकस्य प्रयत्नेन सहस्रशः गृहेषु संस्कृतस्य नित्यश्रवणं भवेत्। प्रत्येकं संस्कृतानुरागिणः प्रयत्नेन नूतनेषु लक्षशः हृदयेषु संस्कृतानुरागः उत्पद्येत। अस्माकं सर्वेषां प्रयत्नेन संस्कृतमाता कोटिशः गृहेषु पुनः निवासं कुर्यात्।


By :- Chamu Krishna Shastry | Views:- 3874 | 25-05-2021 09:39 PM