संस्कृतलेखनान्दोलनम् (Write Samskrit Movement)
संस्कृतेन लिख्यताम् - संस्कृतं लिख्यताम् (Write Samskrit - Right Samskrit)

spf

अद्य सौरयुगादिः। बहुषु राज्येषु नूतनवर्षस्य आरम्भः। अतः अस्मिन् मङ्गलावसरे मङ्गलवासरे कञ्चित् मङ्गलविचारं प्रस्तौमि। तत्र आद्यः विषयः नाम मदीयम् एतद् नूतनं जालपुटं भवद्भ्यः सर्वेभ्यः संस्कृतप्रेमिभ्यः समर्प्यते। अस्मिन् कार्ये मम सहकारिणः संस्कृतसंवर्धनप्रतिष्ठानस्य कार्यपालकाधिकारी श्री लक्ष्मीनरसिंहः, जेट्हाट् सैबर् सेक्युरिटि प्रा. लि. इति संस्थायाः स्वामी श्री धीरजसिंहः, मम अर्धाङ्गिनी श्रीमती सरिता कृष्णशास्त्री च अत्र सस्नेहं स्मर्यन्ते।
द्वितीयः विषयः तु एतस्य लेखस्य शीर्षकसम्बद्धः। नवत्रिंशतः वर्षेभ्यः प्राक् संस्कृतसम्भाषणान्दोलनस्य अङ्कुरः जातः आसीत्। तद् आन्दोलनम् एव क्रमशः संघटनरूपं प्राप्य संस्कृतभारती इति नाम्ना अद्य विश्वव्यापि जातम् अस्ति। सा संस्कृतभारती सर्वेषां संस्कृतकार्याणाम् असङ्ख्यकार्यकर्तॄणां च प्रेरयित्री पोषयित्री च सती न केवलं तं सम्भाषणरथम् वेगेन अग्रे नयन्ती अस्ति अपि तु संस्कृतभाषायाः लोकव्यापीकरणाय अनन्यसाधारणं कार्यं कुर्वती अस्ति।
धाराप्रवाहिता, शुद्धता, शब्दसम्पत्तिः, शैली च इति भाषासौष्ठवस्य चत्वारः आयामाः इति अस्माभिः अद्यावधि कथ्यते स्म। परन्तु अद्य मान्येन जनार्दनहेगडेमहोदयेन सह वार्तालापसमये तद्विषये इतोपि चिन्तनीयम् इति अभासत। चिन्तयेम च। परं प्रकृतं पूर्वविचारानुगुणं चिन्त्यते चेत् धाराप्रवाहितायाः सम्पादनाय श्रवणभाषणकौशले अधिकम् उपकुरुतः इति स्पष्टं भवति तथा च शुद्धतायाः शब्दसम्पत्तेः शैल्याः च प्राप्त्यर्थं पठनलेखनयोः महती आवश्यकता अस्ति। यद्यपि भाषाशुद्धतायाः प्राप्तौ अध्येतुः भाषाविषयकचिन्तनम् एव सर्वप्रधानं कारणम् इति जनार्दनमहोदयः, अभ्यासः बोधनं च इति चान्दकिरणसलूजामहोदयः, व्याकरणज्ञानम् एव इति सामान्यतः सर्वे प्राध्यापकाः वदन्ति तथापि चिन्तनोत्पादनाय जिज्ञासोत्पादनाय अभ्यासाय बोधनाय वा पठनलेखनकेन्द्रितानि शैक्षिककार्याणि आवश्यकानि भवन्ति इति तु सर्वे स्वीकुर्वन्ति।
अद्य संस्कृतमातृभाषिबालाः शताधिकाः सन्ति। सततसंस्कृतसम्भाषणेन येषां संस्कृतभाषा मातृभाषा इव सञ्जाता ते सहस्राधिकाः। दैनन्दिनव्यवहारे संस्कृतेन भाषणकर्तारः लेखकाः च लक्षाधिकाः। एतेषु बहूनां भाषणे लेखने वा शुद्धतायाः महती आवश्यकता अस्ति। यस्मिन् समये संस्कृतसम्भाषणान्दोलनस्य प्रारम्भः अभवत् तस्मिन् समये संस्कृतक्षेत्रे सार्वत्रिकरूपेण सर्वः अपि अन्यस्य संस्कृतभाषणे लेखने वा भाषादोषदर्शनं करोति स्म। परदोषदर्शनेन आत्मनः पाण्डित्यं ख्यापयितुं यतते स्म। अतः संस्कृतशिक्षकेषु छात्रेषु च संस्कृतेन भाषणे भयम् आसीत्। भयम् एतावद् आसीत् यत् कोपि मुखम् एव न उद्घाटयति स्म। तादृशे भयसङ्कोचपूर्णवातावरणे जनेभ्यः धैर्यदानाय “शुद्धं वा अशुद्धं वा, धैर्येण सम्भाषणं कुर्वन्तु, यः अधिकदोषान् करोति तस्य शीघ्रम् अभ्यासः भवति” इति वयं वदामः स्म। तथा कथनेन वातावरणे परिवर्तनं तु क्रमशः जातम्। परन्तु अस्माकं कार्यकर्तॄणां सर्वा शक्तिः भाषायाः भाषितरूपेण प्रचारे, संघटननिर्माणे, विविधप्रचारोपायानां चिन्तने च व्ययिता भवति स्म इति कारणेन पठनलेखनयोः विषये अवधातुं शक्यं न अभवत्। परम् इदानीं सः समयः आगतः अस्ति।
किञ्च विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु च संस्कृतशिक्षणम् अन्यभाषामाध्यमेन भवति स्म, छात्राः पठनम् अपि भारतीयभाषाभिः अनूदितग्रन्थानां कृतवन्तः - न तु संस्कृतव्याख्यनानाम्, परीक्षासु उत्तरलेखनम् अपि अन्यभाषामाध्यमेन अभवत्। अतः छात्राणां संस्कृतभाषाकौशलानां विकासः नैव जातः। तस्मात् विद्यालयीयशिक्षातः उच्चशिक्षापर्यन्तम् आधुनिकपारम्परिकेत्युभयधारयोः अपि संस्कृतेन लेखनस्य प्रशिक्षणस्य महती आवश्यकता सर्वैः अनुभूयते।


spf एतस्य सर्वस्य चिन्तनस्य परिणामरूपेण “संस्कृतलेखनान्दोलनम्” इति अस्माकं सर्वेषां संस्कृतज्ञानां किञ्चित् अग्रिमसोपानात्मकं कार्यं चिन्त्यमानम् अस्ति। पूर्वोक्तः सोयम् अङ्कुरः एव अद्य पल्लवः जातः। श्रीमहाबलेश्वरभट्ट-रामकृष्णमाचार्य-जनार्दनहेगडे-चान्दकिरणसलूजा-इत्यादीनां मार्गदर्शने जायमाने एतस्मिन् कार्ये बहवः किसलयाः भविष्यन्ति येषां विषये अग्रे समये समये निवेदनं करिष्यामि।
सामाजिककार्याणां कर्तुषु संघटनम् (Organisation) यथा - संस्कृतभारती, संस्था (Institution) यथा - संस्कृतसंवर्धनप्रतिष्ठानम्, आन्दोलनम् (Movement) यथा - रामजन्मभूम्यान्दोलनम् इति त्रिधा भवन्ति। तत्र आन्दोलनस्य निर्दिष्टं सीमितं तात्कालिकं च किञ्चन लक्ष्यं भवति, तस्य लक्ष्यस्य साधनाय सर्वे जनाः संस्थाः संघटनानि च मिलित्वा कार्यं कुर्वन्ति। एतद्विषये विस्तृतं चिन्तनम् अग्रे सर्वैः मिलित्वा करणीयम् अस्ति। वस्तुतः समाजसेवाक्षेत्रस्य ज्येष्ठानां संस्कृतशैक्षिकक्षेत्रस्य प्रमुखाणां च परामर्शानुसारम् एव कार्ययोजना करिष्यते।
यथा सम्भाषणम् इति एतद् कार्यस्य किञ्चन उपकरणम् आसीत् तथा एव लेखनम् इति एतद् अपि किञ्चन प्रबलम् उपकरणम्। भाषासौष्ठवसम्पादने, पठनपाठनस्तरवर्धने, शैक्षिकपरिवर्तने च प्रकृष्टोपकारकं साधनं लेखनम्।
सरलमानकसंस्कृतम् अस्माकं माध्यमभाषा। त्यागसमर्पणपरिश्रमाः अस्माकं आधारशक्तयः। संस्कृतेन चिन्तनम् संस्कृताय जीवनम् इति अस्माकं नित्यध्येयसङ्कल्पः। लिखतु संस्कृतम् ! जयतु भारतम् !! इति अस्माकम् आघोषः।
*********


By :- Chamu Krishna Shastry | Views:- 3856 | 15-04-2020 12:14 AM