कः सः एकः अंशः यः संस्कृतशिक्षाक्षेत्रे अद्य ऊनः दृश्यते इति पृष्टे सति उत्तरं सुस्पष्टं यत् अभिव्यक्तिः इति । भाषायाः अभिव्यक्तिः द्विधा भवति । भाषणेन लेखनेन च । अतः भाषणं लेखनम् इति अभिव्यक्तिकौशले इति कथ्येते । क्रमिकः अभ्यासः (Structured Exercise), नियन्त्रितः अभ्यासः (Controlled Practice) इत्यादिभिः कक्ष्यासु कार्यमाणैः अभ्यासैः भाषायाः चतुर्णाम् अपि कौशलानाम् अभ्यासाः कार्यन्ते इति वदन्ति। यदि तद् वास्तविकं तर्हि किमर्थं संस्कृतशिक्षकाः छात्राः च संस्कृतेन भाषणे लेखने च अक्षमाः? न केवलम् अक्षमाः. अपि तु भाषणे लेखने च न प्रवर्तन्ते, न उत्सहन्ते च इति शिक्षाविदः अभिप्रयन्ति । अतः समस्यायाः मूलं पश्यामः चेत् संस्कृतशिक्षणे अभिव्यक्तेः अभ्यासस्य अपर्याप्तता अस्ति इति स्पष्टं भासते ।
पाठानां भागरूपेण छात्राः विविधानाम् अभ्यासानाम् अङ्गतया वाक्यानि वदेयुः लिखेयुः वा । परन्तु ते अभ्यासाः सीमिताः अल्पाः च । अभिव्यक्तिः नाम भाषायाः प्रयोगः । अर्थपूर्णप्रसङ्गेषु प्रयोगः । छात्रः स्वतन्त्रतया सहजतया च संस्कृतभाषायाः प्रयोगं कुर्यात् अर्थात् भाषणेन लेखनेन च स्वतन्त्रतया सहजतया च अभिव्यक्तिं कुर्यात् इति लक्ष्यसाधनाय अनुकूलं भाषाशिक्षणं चिन्तनीयम् ।
गतेषु द्विशते वर्षेषु संस्कृतशिक्षणस्य लक्ष्यं ब्रिटिशजनानां यत् लक्ष्यम् आसीत् तदेव आसीत् संस्कृतवाङ्मयस्य अवगमनम् अन्यभाषाभिः अनुवादः इति । व्यावहारिकरूपेण इदानीम् अपि तदेव अस्ति । न किमपि परिवर्तनं जातम् । अन्यभाषाभिः अनुवादाय अभिव्यक्तेः अभ्यासस्य आवश्यकता एव न भवति । अवगमनकौशलम् अनुवादकौशलं च पर्याप्तम् । अतः एव विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु च अभिव्यक्तेः अभ्यासं न कारयन्ति एव । सर्वे पाठाः परीक्षाः च अवगमनकौशलकेन्द्रिताः । शिक्षकप्राध्यापकादिपदेभ्यः क्रियमाणासु विज्ञापनासु साक्षात्कारेषु च अभ्यर्थिनः संस्कृतेन अभिव्यक्तेः सामर्थ्यस्य अनिवार्यता एव नास्ति । तेन एव संस्कृतस्य अवनतिः जाता । संस्कृतशिक्षायाः अभिवृद्धिः अपेक्षिता चेत् अभिव्यक्तिकौशलकेन्द्रिताः पाठाः चिन्तनीयाः ।
अभिव्यक्तिः इत्येषा तदा एव संस्कृतशिक्षणे व्यवहारे आगच्छेत् यदा छात्राणां शिक्षकाणां च मूल्याङ्कनम् अभिव्यक्तिसामर्थ्यकेन्द्रितं भवेत् । एतदर्थमेव बहुविधानां सामग्रीणां निर्माणं शिक्षकाणां प्रशिक्षणं छात्राणां निरन्तरं तदेककेन्द्रितः च अभ्यासः इति एतानि त्रीणि कार्याणि साधनीयानि। द्विशतस्य वर्षाणां दुर्नीतेः दुष्परिणामस्य निवारणाय न्यूनातिन्यूनं दशवर्षाणि आदेशम् आप्राथमिकविद्यालयविश्वविद्यालयम् आबालपण्डितम् आछात्रप्राध्यापकम् आशिक्षककुलपतिं सर्वे मिलित्वा संस्कृतच्छात्राणां शिक्षकाणां च अभिव्यक्तिसामर्थ्यवर्धनविषये एव चिन्तनं कुर्युः, कार्यक्रमान् कुर्युः, प्रशिक्षणं कुर्युः च । एतादृशं किञ्चन अभियानं यदि न क्रियेत तर्हि संस्कृतशिक्षाक्षेत्रे परिवर्तनस्य संभावना नास्ति ।
समस्यायाः मूलम् अन्यत् अपि किञ्चन अस्ति । छात्राणां शिक्षकाणां च अभिव्यक्तिसामर्थ्यं भवेत् इति सर्वे अङ्गीकुर्वन्ति । परन्तु तद् कथं साधनीयम् इति विषये प्राध्यापकाणां संस्कृतक्षेत्रस्य प्रमुखाणां च बहूनां कल्पना नास्ति वा इति भाति इति तेषां विषये अत्यन्तम् आदरपूर्वकम् एव अत्र वैचारिकीं चर्चां केवलं करोमि । कल्पना एतदर्थं नास्ति यतः काव्यशास्त्रादीनाम् आधारं विना ग्रन्थपङ्क्तिपाठनं विना शिक्षाशास्त्रसिद्धान्तपाठनं विना व्याकरणशास्त्रीयप्रक्रियापाठनं विना च केवलं मौखिकैः अभ्यासैः लेखनाभ्यासैः स्वनिर्मितैः विविधैः नूतनैः अभ्यासैः च छात्राणाम् 1)स्वतन्त्रतया 2)सहजतया 3)सरलतया 4)शुद्धतया 5)सुन्दरतया च भाषाप्रयोगस्य सामर्थ्यम् इति तादृशम् अभिव्यक्तिकौशलं छात्राणां यथा भवेत् तथा तावद्दूरम् अभ्यासं कारयित्वा उपत्रिंशानां छात्राणां गणं निर्माय भाषाभ्यासकारणस्य स्वयम् अनुभवं सम्पादितवन्तः संस्कृतशिक्षाविदः कति सन्ति? विद्यालयीयशिक्षायां (द्वादशकक्ष्यां यावत् प्राक्शास्त्रिपर्यन्तं च) स्नातककक्ष्याणाम् आरम्भे, शिक्षकाणां प्रशिक्षणे च भाषाभ्यासकारणाय एतादृशः विशिष्टः विनूतनः अभिव्यक्तिकेन्द्रितः मार्गः अनुसर्तव्यः भवति खलु । तत् विद्यालयशिक्षकैः चिन्तनीयम्, अहं तु शास्त्रशिक्षणाय नियुक्तः, शिक्षाशास्त्रशिक्षणाय नियुक्तः, तत् मम कार्यं नैव इति केनापि न चिन्तनीयम् । इदानीं संस्कृतस्य अस्तित्वस्य प्रश्नः अस्माकं पुरतः अस्ति । अतः अस्माभिः सर्वैः अपि अभिव्यक्तेः अभ्यासकारणविषये चिन्तनीयम् । महाविद्यालयीयाः विश्वविद्यालयीयाः च प्राध्यापकाः एतस्मिन् विषये न प्रवृत्ताः इति कारणेन एव अद्यावधि संस्कृतशिक्षणे परिवर्तनं न जातम् । तेन एव कारणेन संस्कृतं दिने दिने ह्रीयमाणम् अस्ति । अतः संस्कृतोन्नयने प्राध्यापकानां शास्त्रविदां च पात्रम् अत्यन्तं महत्त्वपूर्णम् अस्ति । देशे विद्यमानानां सर्वेषां संस्कृताध्यापकानां संस्कृतच्छात्राणां च संस्कृतेन अभिव्यक्तेः अभ्यासः कथं कारणीयः इत्येव समस्यायाः मूलम् अस्ति।
संभाषणम् अभिव्यक्तिः इति द्वयोः पदयोः मध्ये मया कश्चन भेदः कल्प्यते । अद्य ते द्वे पदे संस्कृतशिक्षणे साङ्केतिके पारिभाषिके पदे इति उपस्थापयामि । संभाषणम् इति पदं भाषाभ्यासमार्गे प्रारम्भिकसोपानं प्रकाशयति । अभिव्यक्तिः इति पदं स्वतन्त्रतया सहजतया सरलतया शुद्धतया सुन्दरतया च भाषणेन लेखनेन च भाषाप्रयोगस्य सामर्थ्यस्य सम्पादनं यावत् मार्गं प्रकाशयति ।
संस्कृतेन अभिव्यक्तिः इति एषः विषयः अस्माकं सर्वेषां चर्चाविषयः भवेत्, कार्यविषयः भवेत्, आद्यताविषयः भवेत् च । शास्त्रशिक्षणेन सह, काव्यशिक्षणेन सह, सिद्धान्तशिक्षणेन सह च अभिव्यक्तिशिक्षणाय अपि अस्माभिः सर्वैः कश्चन समयः कल्पनीयः एव । एतत् कार्यम् एतदर्थमेव विद्यमानानां केषाञ्चित् कार्यम् इति स्थितिः न भवेत् । विद्यालयशिक्षकैः तु विशेषतया एतद्विषये चिन्तनीयम् । छात्रैः तु स्वस्य भविष्यतः उज्ज्वलतायै एतद्विषये चिन्तनीयमेव, नान्या गतिः ।
यदा 1948 तमे वर्षे इस्रायिलदेशः यदा स्वतन्त्रः जातः तदा विश्वस्य सर्वेभ्यः देशेभ्यः येहूदीयाः मातृभूमौ वासाय इस्रायिलम् आगताः । तदा ते सर्वे हिब्रूभाषां न जानन्ति स्म । पूर्वतनदेशभाषां जानन्ति स्म । अतः तेषां लक्षशः जनानां हिब्रूशिक्षणस्य अभियानं प्राचलत् । तदा तदानीन्तनः इस्रायिलस्य प्रधानमन्त्री अपि हिब्रूपाठनाय प्रतिदिनं घण्टां यावत् समयं दत्तवान् इति वदन्ति । अर्थात् सः हिब्रूपाठनकार्याय तावत् महत्त्वं दत्तवान् । तद्वत् संस्कृतक्षेत्रस्य प्रधानमन्त्रितुल्याः प्राध्यापकाः अपि अभिव्यक्तिप्रशिक्षणाय समयं दद्युः, विविधान् नवप्रयोगान् कुर्युः, तेन च संस्कृतशिक्षणक्षेत्रे वेगेन प्रचलतः ह्रासस्य गतिरोधं कुर्युः इति मम निवेदनम् ।
आरभ्यताम् अभिव्यक्तेः अभ्यासाय आभारतम् अभिनवम् अभियानम् !