आगामिनि अप्रैलत्रिंशति दिनाङ्के त्रय़ः केन्द्रीयाः संस्कृतविश्वविश्वविद्यालयाः कार्यारम्भं करिष्यन्ति अर्थात् राष्ट्रियसंस्कृतसंस्थानम्(देहली) श्री लाल बहादुर शास्त्री राष्ट्रियसंस्कृतविद्यापीठम्(देहली) राष्ट्रियसंस्कृतविद्यापीठम्(तिरुपति) इति एतानि त्रीणि तस्मात् दिनाङ्कात् केन्द्रीयविश्वविद्यालयनाम्ना कार्यं करिष्यन्ति। इदानीं तानि मानितविश्वविद्यालयाः सन्ति। इतः परं केन्द्रीयविश्वविद्यालयाः भविष्यन्ति। तेषां विश्वविद्यालयानां स्थापनाय विधेः पारणं लोकसभायां राज्यसभायां च सर्वेषां राजनैतिकदलानाम् अविरोधसमर्थनेन अभवत् इति कश्चन विशेषः। तस्मिन् सन्दर्भे केचन सांसदाः संसदि भाषणे संस्कृतभारत्याः उल्लेखं कृतवन्तः। किञ्च त्रयः अपि कुलपतयः – प्रा. परमेश्वर नारायण शास्त्री, प्रा. रमेशकुमार पाण्डे तथा च प्रा मुरलीधर शर्मा - संस्कृतभारत्याः कार्यकर्तारः इति अपरः विशेषः। अत्र अन्यः अपि कश्चन अंशः उल्लेखनीयः अस्ति। संस्कृतभारत्याः नवत्रिंशतः वर्षाणां मौनतपसः अपरोक्षपरिणामाः एतादृशाः असंख्याः सन्ति। तदर्थं सद्यःकाले कुत्र अपि संस्कृतभारत्याः उल्लेखः न भवेत् चेत् अपि भविष्यत्काले इतिहाससंशोधकाः कुर्युः एव। किञ्च यदा जनाः स्वेन अकृतं कार्यम् अपि स्वेन कृतम् इति दर्शयन्ति, यशः स्वयं स्वीकुर्वन्ति च इति स्थितिः अस्ति तादृशे अपि समये आत्मनः ख्यापनं संस्कृतभारत्याः चरित्रे एव नास्ति इति एतद् संस्कृतभारत्याः वैशिष्ट्यम् इति सः अन्यः एव विषयः। आस्तां तावत् सः विषयः। प्रकृतं ते त्रयः अपि कुलपतयः एतस्य़ै सफलतायै, तेषां श्रमाय, तेषां कार्यकुशलतायै च विशेषतया अभिनन्दनीयाः।
वस्तुतः ते त्रयः अपि तेषु एव विश्वविद्यालयेषु कुलपतिरूपेण पुनर्नियुक्त्यर्थम् अत्यन्तं योग्याः। यद्यपि कुलपतिनियुक्तिः मम अधिकारविषयः न, रुचिविषयः अपि न, अद्यपर्यन्तम् एतादृशं महत्त्वभूतं विषयं सार्वजनिकरूपेण अहं न चर्चितवान् च तथापि अद्य संस्कृतज्ञैः संस्कृतहितं मनसि निधाय वस्तुनिष्ठरूपेण, न तु व्यक्तिनिष्ठरूपेण, वैचारिकं मन्थनं करणीयम् इत्यतः अस्य लेखस्य गौणविषयरूपेण एतं विचारं प्रस्तुतवान्। ते त्रयः यदा कुलपतिरूपेण पदभारं गृहीतवन्तः तदा त्रिषु अपि विश्वविद्यालयेषु एतावत्यः समस्याः आसन् यत् इतःपरं यदा कदापि तेषां विश्वविद्यालयानाम् उद्धारः अशक्यः इति वातावरणम् आसीत्। परन्तु एते त्रयः स्वीयेन समर्थनेतृत्वकौशलेन, वैयक्तिकचरित्रेण च न केवलं प्रत्येकं विश्वविद्यालयं समस्याभ्यः बहिः आनीतवन्तः अपि तु प्रगतिपथे एतावद्दूरम् आनीतवन्तः अपि। (अन्ये अपि केचन भूतपूर्वाः वर्तमानाः च महान्तः कुलपतयः देशे सन्ति येषां विषये अहम् अग्रे लिखेयम्।) अतः दूरदृष्टिमतां संस्कृतदृष्टिमतां प्राचीनार्वाचीनदृष्टिमतां कार्यसाधनकुशलानाम् एतेषां त्रयाणां पुनर्नियुक्तिः तेषां त्रयाणां विश्वविद्यालयानां योगक्षेमाय भवेत्। एतस्य अर्थः एवं नास्ति यद् एतेषाम् अपेक्षया समर्थतराः अन्ये न सन्ति इति। अवश्यं स्युः। परन्तु यदा केचन त्रिवारं चतुर्वारं कुलपतिरूपेण पुनः पुनः नियुक्ताः, य़त् च न उचितम्, तदा द्वितीयवारं नियुक्तिः न असमीचीना। किञ्च तेषां त्रयाणां विश्वविद्यालयानां कश्चन निर्णायकः घट्टः इदानीम् अस्ति। वर्तमानैः कुलपतिभिः बहूनि उत्तमानि कार्याणि आरब्धानि, तेषां भविष्यतः चिन्तनम् अत्यन्तं सम्यक् अस्ति, अतः मया तेषां पुनर्निय़ुक्त्यर्थं समर्थनं क्रियमाणम् अस्ति। परन्तु कश्चन यः कस्मिंश्चित् विश्वविद्यालये इदानीं कुलपतिरूपेण नियुक्तः अस्ति परन्तु सः मध्यकाले एव अन्यस्मिन् स्वानुकूलतरे अथवा महत्तरे विश्वविद्यालये कुलपतिः भवितुम् इच्छति चेत् तद् अयोग्यम्। तेन तत्र अवधिः पूर्णः करणीयः। अन्यथा बह्व्यः समस्याः उत्पद्येरन्। ये कुलपतिपदेषु दृष्टिमन्तः श्रेष्ठाः प्राध्यापकाः स्युः तेषां मम एतादृशलेखनेन कदाचित् दुःखं भवेत्। अहं तेषां क्षमां प्रार्थये। मम लेखनमात्रेण ये केपि कुलपतयः न भविष्यन्ति अपि, तत्र मम पात्रं किमपि न भवेत् अपि। अतः अपि कुलपतिपदकाङ्क्षिभिः अभ्यर्थिभिः चिन्ता करणीया नास्ति।
इदानीं मुख्यविषयम् आगच्छामः। पूर्वं ते त्रयः विश्वविद्यालयाः मानिताः आसन्, इदानीं केन्द्रीयाः अभवन्, तेन कः भेदः भविष्यति इति पृष्टे सति विनोदेन उत्तरं वक्तव्य़ं चेत् पूर्वं ते त्रयः अपि नपुंसकलिङ्गाः आसन् इदानीं पुंलिङ्गाः भविष्यन्ति। (संस्थानं विद्यापीठम् इत्यादिस्थाने विश्वविद्यालयः इति।) परिसरेषु नामफलकानां परिवर्तनं भविष्यति। पाठने तु पूर्वमपि वेदान्तसारः भूषणसारः तर्कसङ्ग्रहः अर्थसङ्ग्रहः इत्यादीनां सारसङ्ग्रहाणां पाठनं भवति स्म इतःपरम् अपि तेषाम् एव भविष्यति। परन्तु विश्वविद्यालयस्य प्रतिष्ठा अधिका भवेत्, धनम् अधिकं लभ्येत, भवनानि, निय़ुक्तयः, योजनाः, सौकर्याणि, साधनानि च अधिकानि स्युः। यदा कदा अपि नूतनं किञ्चित् सृज्यते तदा उत्तमाः संभावनाः अपि अधिकाः भविष्यन्ति इति एषः महान् अवसरः एव।
परन्तु मूलभूतः प्रश्नः अन्यः कश्चन अस्ति यः अस्माकं सर्वेषां चर्चाविषयः त्वरितकार्यविषयः च भवेत्। तन्नाम, विश्वविद्यालयस्य स्थापनं नाम दृढमूलाधारनिर्माणं विना मृदुमृत्तिकायाः उपरि बह्वट्टभवननिर्माणम् इव। संस्कृतशिक्षणस्य संस्कृताधारितायाः आजीविकायाः अवसरस्य च आधारभूतक्षेत्रम् अस्ति विद्यालयीयशिक्षाविभागः। तत्र तु दिने दिने संस्कृतस्य सर्वविधा क्षतिः वेगेन प्रचलन्ती अस्ति। तद्विषये अपेक्षितं यत् किमपि कार्यम् अपेक्षितपरिमाणेन न प्रचलति। सर्वेषां संस्कृतक्षेत्रप्रमुखाणाम् अवधानं शक्तिः, समयः च कुलपतिनियुक्तिषु, प्राध्यापकनियुक्तिषु, विविधपुरस्काराणां प्राप्तौ, संगोष्ठीसम्मेलनादिषु च व्ययीक्रियमाणा अस्ति। अतः आधारं विना निर्माणं पतनाय भवेत्। तेन सह एतद् अपि भवेत् यत् राज्याधीनानां संस्कृतमहाविद्यालयानां विश्वविद्यालयानां च छात्राः विविधकारणैः एतेषु त्रिषु केन्द्रीयविश्वविद्यालयेषु प्रवेशं स्वीकुर्युः येन राज्याधीनाः संस्थाः क्रमशः रिक्ततां गच्छेयुः यथा इदानीं सामान्यविश्वविद्यालयानां संस्कृतविभागाः पिधीयमानाः सन्ति, य़था राज्यसंस्कृतमहाविद्यालयानां छात्राः त्रयाणां मानितविश्वविश्वविद्यानां परिसरेषु एतावता एव गच्छन्तः सन्ति तथा। अतः केन्द्रीयविश्वविद्यालयानां स्थापनस्य उत्सवोत्सुकता बहुषु नास्ति।
अयं कश्चन सन्धिकालः। कोरोनाकारणेन न केवलं भारतस्य अपि तु जगतः एव चिन्तनविधानं शिक्षणविधानं जीवनविधानम् इत्यादिषु महन्ति परिवर्तनानि भविष्यन्ति येषु विषयेषु अहम् अग्रे लेखिष्यामि। एतस्मिन् समये एव त्रयाणां विश्वविद्यालयानां केन्द्रीयत्वसिद्धेः सन्धिकालः अपि। अन्ये अपि केचन विशेषप्रसङ्गाः सद्यः आगमिष्यन्ति येषां विषये एतस्मिन् जालपुटे अहं काले काले लिखन् भविष्यामि। एवं नवनिर्माणाय बहवः अवसराः सन्ति। तदर्थं वयसा मनसा वा नवयुवकाः नवचिन्तकाः आवश्यकाः। जगन्माता संस्कृतमाता तादृशानाम् अन्वेषणं विश्वविद्यालयेषु महाविद्यालयेषु विद्यालयेषु च कुर्वती अस्ति। कृपया मातुः आह्वानम् आकर्ण्यताम्।