१५ संसूचनाः

spf

संसूचनाः इति एषः शब्दः suggestions इति अर्थे प्रयुक्तः। यद्यपि एताः १५ संसूचनाः विश्वविद्यालयानां कुलपतिभ्यः मन्त्रालयानाम् अधिकारिभ्यः च आङ्ग्लभाषया लिखित्वा प्रेषिताः तथापि राष्ट्रियशिक्षानीतेः प्रसङ्गे संस्कृतस्य एतस्मिन् ऐतिहासिकघट्टे अस्माभिः किं किं कर्तव्यम्, संस्कृतस्य महदुन्नत्यै कथं वा एषः समयः अवसरत्वेन उपयोक्तव्यः इति विषये प्राध्यापकाः, छात्राः, सर्वकाराः, सामाजिकाः इति चतुर्णाम् अपि संस्कृतस्य भविष्यविधातॄणां मध्ये एतेषु विषयेषु गभीरं चिन्तनं भवेत्, सर्वे स्वमतं वर्तमानान् भाविनः च शैक्षिकपरिषदः सदस्यान् कुलपतीन् च सूचयेयुः इति कारणेन सर्वेषां सम्मुखे लेखत्वेन एतत् उपस्थाप्यते। संस्कृतविश्वविद्यालयाः इत्यस्मिन् सम्बद्धमहाविद्यालयाः अपि अन्तर्भवन्ति।

1. सामान्यमहाविद्यालयेषु व्यवसायविषयकेषु महाविद्यालयेषु च संस्कृतेतरविषयविद्यार्थिनां जालपुटीय/दूरस्थमाध्यमेन चयनाधारितपाठ्यांशप्रणाल्या (CBCS) शिक्षणाय संस्कृतभाषायाः तथा भारतीयज्ञानपरम्परायाः च अल्पकालिकानां दीर्घकालिकानां वा प्रमाणपत्रीयाणां डिप्लोमा इत्यस्य वा पाठ्यक्रमाणां प्रारम्भः क्रियताम्। सम्यक् प्रचारे कृते एतेन पाठ्यक्रमेण मुख्यधारायाः कोटिशः छात्राः संस्कृतं पठेयुः।
2. सर्वः संस्कृतच्छात्रः सर्वकारस्य SWAYAM इति व्यवस्थया प्रचाल्यमानान् आधुनिकविषयाणां पाठ्यक्रमान् स्वीकर्तुं प्रेर्यताम्। एतेन सः संस्कृतक्षेत्रे आजीविकां न प्राप्स्यति चेत् अन्यक्षेत्रे अपि प्रयत्तुं शक्नुयात्, तस्य ज्ञानं बहुमुखं भवेत्, संस्कृतेन सह आधुनिकविषयाणां संयोजनाय तज्ज्ञजनाः अपि निर्मिताः भवेयुः च।
3. युगपत् पदवीद्वयस्य (Dual Degree Course) पठनाय संस्कृतविषयेषु आधुनिकविषयेषु च आकर्षकाः विविधाः पाठ्यक्रमाः सज्जीक्रियन्ताम्। एतैः संस्कृतं पुनः मुख्यधाराशिक्षणे सर्वव्याप्तं कारयितुं शक्यते।
4. ये नूतनाः पाठ्यक्रमाः निर्मीयेरन् ते विषयाधारिताः ग्रन्थाधारिताः इति द्विधा भवितुम् अर्हन्ति। ग्रन्थाधारितानां पाठ्यक्रमाणां विषये विशेषाग्रहः भवेत् यतः अद्यावधि शास्त्रपरम्परायाः रक्षणम् उद्ग्रन्थानाम् अध्ययनाध्यापनाभ्याम् अभवत्। प्रसिद्धाः तेनालिपरीक्षाः राजमण्ड्रिपरीक्षाः नगरपरीक्षाः च ग्रन्थाधारिताः। तादृशाः पाठ्यक्रमाः तदर्थं छात्राणां सज्जीकरणं च इति तदेव शास्त्रसंवर्धनं कर्तुं शक्ष्यति।
5. सम्पूर्णतया संस्कृतनिष्ठानां वर्तमानानां पाठ्यक्रमाणां यथावत् रक्षणं कुर्वन्तः एव प्रयोगरूपेण ५०% संस्कृतस्य पाठ्यांशाः ५०% आजीविकाप्राप्तौ उपयोगिनां संस्कृतसम्बद्धानाम् आधुनिकविषयाणां च संयोगेन विनूतनं पाठ्यक्रमं दशवर्षाणि सञ्चाल्य पश्येम। ते विषयाः प्रकृतं केवलं स्नातककक्ष्यायाम् अपि पर्याप्ताः। स्नातकानन्तरं छात्रः स्नातकोत्तरस्तरे संस्कृतधारायाम् आधुनिकधारायां वा गन्तुं शक्नुयात्। विद्यमानस्य पाठ्यक्रमाणां यथावत् रक्षणेन तेषां हानिः न भवेत्। नूतनस्य कारणेन छात्रसङ्ख्या आजीविकावसराः इति द्वयमपि अभिवर्धेत।
6. देशस्य सर्वेषां संस्कृतच्छात्राणां सङ्ख्यां स्वीकृत्य तेषु संस्कृतेन अभिव्यक्तेः सामर्थ्यवतां प्रतिशतम् अनुपातः यदि गण्येत तर्हि तेषु ९०% छात्राः संस्कृतेन अभिव्यक्तौ असमर्थाः दृश्येरन्। अतः तेषु प्रत्येकं छात्रस्य भाषाभ्यासकारणस्य योजना करणीया। प्रत्येकं छात्रः संस्कृते समर्थः विश्वासवान् च भवेत्। तेषु व्याख्यात्मककौशलं शोधकौशलं च वर्धेत येन ते संस्कृतज्ञानपरम्पराक्षेत्रे मूलभूतं शोधं कुर्युः।
7. विद्यालयीयस्तरस्य (प्रथमातः प्राक्शास्त्रिपर्यन्तम्) पाठ्यक्रमाणां परिवर्तनं क्रियतां येन स्नातकस्तरे योग्याः भाषायां समर्थाः कौशलवन्तः उत्साहिनः च छात्राः आगच्छेयुः। प्राक्शास्त्रिकक्ष्यायां वर्तमानपाठ्यक्रमं रक्षद्भिः नूतनः कश्चन प्रयोगात्मकः भाषाभ्यासकारकः पाठ्यक्रमः आरब्धव्यः।
8. विश्वविद्यालयैः सम्बद्धमहाविद्यालयैः च सार्वजनिकानां कृते सायंकालीनकक्ष्याः जालपुटीयकक्ष्याः च आरब्धव्याः याभिः विश्वविद्यालयादीनां धनस्य आयः अधिकः भवेत्।
9. सार्वजनिकसम्पर्कस्य कृते सामाजिकमाध्यमेषु प्रचाराय च तज्ज्ञाः जनाः नियोक्तव्याः।
10. राष्ट्रियपरिचर्चासु भागः स्वीकरणीयः, आक्रामकरूपेण संस्कृतस्य पक्षाः उपस्थापनीयाः तथा च चर्चा संस्कृतपरतया परिवर्तनीया। जनमानसे संस्कृतविषयकचित्रं किं भवेत् इति यत् युद्धम् अस्ति तत् संस्कृतज्ञैः जेतव्यम्। आ देशं समाजे प्रबलः संस्कृतानुकूलः आधारः न निर्मीयेत चेत् संस्कृतहितरक्षणं साधयितुं न शक्येत।
11. अवश्यंभाविनि शीघ्रभाविनि च डिजिटल-भारते स्पर्धात्मके विकासोन्मुखे तन्त्रज्ञानप्रधाने नवनिर्माणशीले च भारते संस्कृतच्छात्राः असमर्थाः अनुपयोज्याः अप्रासङ्गिकाः पृष्ठगामिनः च यथा न भवेयुः तथा तेषां सज्जता अद्य कार्या।
12. संस्कृते व्युत्पत्तिज्ञानं वर्तमानकालिककौशलानि तथा च कस्यचित् एकस्य आधुनिकविषयस्य ज्ञानम् इति एतानि त्रीणि संस्कृतच्छात्रं कस्मिन् अपि व्यवहारसागरे तरणं कर्तुं समर्थं कुर्युः। अतः तदनुकूला शिक्षणयोजना करणीया।
13. स्नातकस्तरात् एव छात्रेषु शोधसंस्कृतिः, आन्तरविषयकाध्ययनकौशलानि तथा च नवाविष्कारान् कर्तुं प्रबलतमाः इच्छाः उत्पादनीयाः।
14. प्रत्येकं छात्रः नूतनं समकालिकं साहित्यं स्रष्टुं प्रेरणीयः तदर्थं शिक्षणीयः च।
15. प्रत्येकं संस्कृतज्ञः एकस्य वा प्राचीनस्य अप्रकाशितस्य पाण्डुलिपिग्रन्थस्य सम्पादनं कुर्यात् इति अभिप्रेरणं व्यवस्थापनं च कर्तव्यम्।

एवं प्रकारेण एते १५ संसूचनाः संस्कृतशिक्षाक्षेत्रे नवसर्जनाय अत्यन्तं महत्वपूर्णाः। एते असंभवाः अशक्याः इति उपस्थापनकाले एव कृपया मा चिन्त्यताम्। कथं कथं कर्तुं शक्यते इति कञ्चित्कालं शान्ततया उपायान्वेषणं क्रियताम्। तदा अवश्यमेव मार्गाः स्फुरेयुः।

कस्यचिदपि नूतनस्य प्रारम्भाय महत् धैर्यम् आवश्यकं भवति। नीतिनिर्णायकस्थानेषु पदेषु विद्यमानानां संस्कृतप्रमुखाणां तादृशधैर्याय सम्पूर्णे देशे सर्वेषु संस्कृतज्ञेषु एतद्विषये चर्चा विचारमथनं च भवेत्। तेन द्वारा राष्ट्रियं सामूहिकं मनः निर्मीयेत। तत् सामूहिकं मनः प्रबलेच्छारूपेण परिवर्तेत। तादृश्याः राष्ट्रियेच्छाशक्तेः निर्माणाय संस्कृतभविष्यविधातृभिः अर्थात् प्राध्यापकैः शिक्षकैः छात्रैः अभिभावकैः संस्कृतानुरागिभिः अधिकारिभिः इति सर्वैः एषः लेखः पठनीयः। तदर्थं भवत्सु साग्रहं निवेदनं यत् भवत्परिचितेभ्यः अत्यधिकजनेभ्यः एषः लेखः प्रेष्यतां सामाजिकमाध्यमेषु स्थाप्यतां च। किञ्च भवता प्रतिस्पन्दरूपेण एतद्विषये भवदीयाः विचाराः भवदीयसामाजिकमाध्यमेषु स्थाप्यन्ताम्। अध्यापकप्रकोष्ठेषु दूरभाषासंवादेषु च चर्चा क्रियताम्। आवश्यकतायां सत्याम् एतस्य लेखस्य अनुवादं कृत्वा प्रकाशयितुं शक्यते।

विशेषतया तैः किम् इष्यते इति विषये संस्कृतच्छात्रैः प्रबलतया प्रतिपादनीयम्। यतः एषः छात्राणां भवतां भविष्यतः प्रश्नः, न तु अन्येषां केषाम् अपि ।

संस्कृतज्ञानाम् अस्माकं सामूहिकेच्छाशक्तेः पुरतः कोपि राजनैतिकः अवरोधः अस्मान् कर्तव्यपथि न अवरुन्ध्यात्। सा सामूहिकेच्छाशक्तिः अद्यावधि न जागरिता। इदानीं सः जागरणमहूर्तः!


By :- Chamu Krishna Shastry | Views:- 5080 | 01-05-2021 10:42 PM